Wednesday, October 07, 2009

sri ramaraksha stotram-4

अथ रक्षा-पाठः |

शिरोमे राघवः पातु भालं दशरथात्मजः ||

कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती |
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ||

जिव्हां विद्यानिधिः पातु कंठं भरतवन्दितः |
स्कन्धौ दिव्यायुधःपातु भुजौ भग्नेशकार्मुकः ||

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् |
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ||

सुग्रीवेशः कटी पातु सक्‍थिनी हनुमत्प्रभुः।
ऊरू रघूत्तमः पातु रक्शःकुलविनाशकृत्‌ ||

जानुनी सेतुकृत्पातु जंघे दशमुखान्तकः |
पादौ बिभीषणश्रीदः पातु रामोखिलं वपुः ||

इति रक्षा-पाठः |

अन्वयतात्पर्यौ --
१) मम शिरः राघवः रक्षतु |
२) मम भालं दशरथात्मजः (दशरथस्य पुत्रः) रक्षतु |
३) मम दृशौ (नेत्रौ) कौसल्येयः रक्षतु |
४) मम श्रुती (क्रर्णौ, श्रुती-शक्तिः) विश्वामित्रप्रियः रक्षतु |
५) मम घ्राणम् (नासिका, घ्राण-शक्तिः) मखत्राता (मखस्य त्राता= यज्ञस्य रक्षकः) रक्षतु |
६) मम मुखम् सौमित्रिवत्सलः (लक्ष्मणस्य प्रियः) रक्षतु |
७) मम जिव्हाम् विद्यानिधिः रक्षतु |
८) मम कण्ठम् भरतवन्दितः (भरतेन वन्दितः) रक्षतु |
९) मम स्कधौ दिव्यायुधः रक्षतु |
१०) मम भुजौ भग्नेशकार्मुकः रक्षतु |
११) मम करौ सीतापतिः रक्षतु |
१२) मम ह्रुदयम् जामादाग्न्यजित् (जामादाग्निम् जितः) रक्षतु |
१३) मम माध्यम् खरध्वंसी (खरं ध्वंसम् कृतः) रक्षतु |
१४) मम नाभिम् जाम्बवदाश्रयः (जाम्बवत् + आश्रयः) रक्षतु |
१५) मम कटी सुग्रीवेशः (सुग्रीव + ईशः) रक्षतु |
१६) मम सक्थिनी हनुमत्प्रभुः (हनुमत् + प्रभुः) रक्षतु |
१७) मम ऊरू रघूत्तमः (राधुनाम् उत्तमः) च रक्षःकुलविनाशकृत् (राक्षस कुलस्य विनाशकः) च रक्षतु |
१८) मम जानुनी सेतुकृत् (सेतोः निर्माता) रक्षतु |
१९) मम जंघे दशमुखान्तकः (रावणस्य अन्तकः) रक्षतु |
२०) मम पादौ बिभीषणश्रीदः (विभीषणम श्रीम दत्तः) रक्षतु |
२१) मम वपुः (शरीरः) अखिलम् (सर्वम्) अपि रामः रक्षतु |

No comments: