Friday, October 09, 2009

sri ramaraksha stotram-5

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् |
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ||

अन्वयः --
यः एतां रामबलोपेतां (राम+बल+उपेताम्) सुकृती च रक्षां पठेत्, सः चिरायुः सुखी पुत्री विजयी विनयी भवेत् |

तात्परयम् --
एषा रामरक्षा रामबलसहिता, सत्फलदायिका च अस्ति | यः ईदृशा रामरक्षा पठेत् सः चिरायुः सुखी पुत्री विजयी विनयी भवेत् |

पाताळभूतलव्योमचारिणश्छद्मचारिणः |
नद्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ||

अन्वयः --
यः रामनामभिः रक्षितं, तेन पाताळचारिभिः भूतलचारिभिः व्योमचारिभिः च, द्रष्टुम् अपि न शक्यम् |

तात्परयम् --
यः रामरक्षा पठेत्, तस्मै कः अपि हानिः कर्तुम् न शक्यम् |

रामेति रामभद्रेति रामचंद्रेति वा समरन् |
नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ||

अन्वयतात्पर्यौ --
यः रामः अथवा रामभद्रः अथवा रामचंद्रः इति स्मरेत् , सः नरः पापैः न लिप्यते, अपि तस्मै भुक्तिं मुक्तिं च लभेते |

जगज्जैत्रैकमंत्रेण रामनाम्नाभिराक्षितम्
यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ||

अन्वयः --
जगतः + जेतृ + एक + मन्त्रेण रामनाम्ना + अभिरक्षितम् यः कंठे धारयेत्, तस्य करस्थाः सर्वे अपि सिद्धयः |

चिन्तनम् --
रामनामम् एक [मात्र] जगतः जेतृ मन्त्रः | एषा रामरक्षा ताद्रुशेन रामनाम्ना अभिरक्षितम् | यः ईदृशाम् रामरक्षां कंठे धारयेत्, तस्य करः सर्वे अपि सिद्धयः स्थाः |

वज्रपञ्जरनमेदं यो रामकवचं स्मरेत् |
अव्याहताज्ञः सर्वत्र लभते जयमङ्गळम् ||

अन्वयः --
यः इदं वज्रपञ्जर नाम (धारक) रामकवचं स्मरेत्, अवव्याहत + आज्ञः जयः मङ्गळम् लभते |

तात्पर्यः--
एतस्य रामकवचस्य "वज्रपञ्जर" इति नामः अस्ति | यः ईदृशं रामकवचं स्मरेत्, तस्य आज्ञः सर्वत्र अवव्याहतः [अप्रतिबंधः] भवति, तस्मै मङ्गळकारक जयः लभते |

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः |
तथा लिखितावान् प्रातः प्रबुद्धो बुधकौशिकः ||

अन्वयतात्पर्यौ --
स्वप्ने इमां रामरक्षां हरः [शिवः] यथा आदिष्टवान्, प्रबुद्धः बुधकौशिकः प्रातः तथा लिखितावान् |

No comments: