Monday, October 05, 2009

sri ramaraksha stotram-2

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् |
एकैकमक्षरं पुंसां महापातकनाशनम् ||

अन्वयः --
रघुनाथस्य (रघुनाथः = राघवाणाम् नाथः, अर्थात् रामः) चरितम् शतकोटि श्लोकेषु प्रविस्तरम् अस्ति |
तस्य (रघुनाथस्य चरितस्य) एकम् एकम् (एक + एकम् = एकैकम्) अक्षरम्, पुंसाम् (अर्थात् मनुष्याणाम्) महा पातकम् (अर्थात् पापम्) नाशनम् करोति |

तात्पर्यम् --
The story of raghunAtha (rAma) has been detailed in over a hundred crore verses. Every single letter of those (hundred crore) verses destroyes [even] the great sins of humans.

No comments: