Tuesday, October 06, 2009

sri ramaraksha stotram-3

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् |
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ||

अन्वयः --
नीलोत्पलश्यामम् , रामम् , राजीवलोचनम् , जानकीलक्ष्मणोपेतम् , जटामुकुटमण्डितम् ध्यात्वा (ध्यानम् कृत्वा) ...

प्रतिपदार्थः --
नीलोत्पलश्यामम् -- यः नील वर्णे स्थित उत्पलम् (कमलम्) इव श्यामः अस्ति तम्
राजीवलोचनम् -- यः राजीवः (रक्त वर्णे स्थित कमलम्) इव नेत्र-समन्वितः तम्
जानकीलक्ष्मणोपेतम् -- यः जानिकीलक्ष्मणौ च उपेतः तम्
जटामुकुटमण्डितम् -- यः मुकुटः इव जटेन अलाकृतः तम्

चिन्तनम् --
एषः श्लोकः असम्पूर्नवाक्यः | नीलोत्पलश्यामम् ,राजीवलोचनम्, इत्यादि सर्वे अपि "रामम्" शब्दस्य विशेषणाः |
अत्र "कीदृशं रामम् ध्यानम् कर्तव्यम् | " इत्यस्य प्रश्नस्य उत्तरम् अस्ति परन्तु "रामम् ध्यात्वा किम कर्तव्यम् ?" इत्यस्य प्रश्नस्य उत्तरम् नास्ति |

तस्य प्रश्नश्य उत्तरम् अग्रिम श्लोके विद्यते वा इति पश्यामः -

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् |
स्वलीलयाजगत्रातुं आविर्भूतमजं विभुम् ||

अन्वयः --
सासितूणधनुर्बाणपाणिम्, नक्तंचरान्तकम् ,स्वलीलया + जगत्रातुम् + आविर्भूतम्, अजम्, विभुम्

प्रतिपदार्थः --
सासितूणधनुर्बाणपाणिम् -- यम् तूणे असि धृतम् तम्, यम् हस्ते (पाणौ) बाणः धृतम् तम्
नक्तंचरान्तकम् -- यम् राक्षसाणाम् अंतकम् तम्
स्वलीलया + जगत्रातुम् + आविर्भूतम् -- यम् स्वलीलया जगतम् रक्षितुम् (त्रातुम्) आविर्भूतम् तम्
अजम् -- यम् न जन्मितम् तम्
विभुम् -- अपरिमितम्, शासकम्

चिन्तनम् --
एतस्मिन् श्लोके अपि, सर्वे: पदाः विशेषणाः, अपि च क्रिया पदः नास्ति |

रामरक्षाम् पठेत् प्राज्ञः पापघ्नीम् सर्वकामदाम् |
शिरोमे राघवः पातु भालम् दशरथात्मजः ||

अन्वयः --
पापघ्नीम् सर्वकामदाम् रामरक्षाम् प्राज्ञः पठेत् | मम शिरः राघवः पातु, मम भालम् दशरथात्मजः |

प्रतिपदार्थः --
पापघ्नीम् -- या पापम् हरति तम्
सर्वकामदाम् -- या सर्व कामान् ददाति तम्
रामरक्षाम् -- अस्य रामरक्षा स्तोत्र
प्राज्ञः -- पण्डितः
राघवः -- रघोः वंशे जन्मितः
दशरथात्मजः -- दशरथस्य आत्मजः
पातु -- रक्षतु
पठेत् -- पठितव्यम् (प्रायः)

चिन्तनम् --
एतस्मिन् श्लोके पूर्व पृष्ट प्रश्नस्य उत्तरम् अस्ति | अतः पूर्ण तातपर्यम् एवम् भवति --

तातपर्यम् --
रामम् ध्यात्वा रामरक्षाम् पठेत् | सः रामः कीदृशः अस्ति ? सः रामः नीलोत्पलाश्यामः, राजीवलोचनः, जानकीलक्ष्मणोपेतः, जटामुकुटमण्डितः सासितूणधनुर्बाणः, नक्तंचरान्तकः ,स्वलीलयाजगत्रातुमाविर्भूतः, अजः, विभुः अस्ति | सा रामरक्षा कीदृशा अस्ति ? सा रामरक्षा पापघ्नी सर्वकामदा अस्ति |

ततः परम् रक्षा 'भागः' आरभते --
१) मम शिरः राघवः पातु |
२) मम भालम् दशरथात्मजः पातु |

अत्र पातु इत्युक्ते रक्षतु इति|

No comments: