Saturday, October 10, 2009

sri ramaraksha stotram-6

आरामः कल्पवृक्षाणां विरामः सकलापदाम् |
अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ||

अन्वयः--
रामः कल्पवृक्षाणां आरामः, सकलापदां विरामः, त्रिलोकाणां अभिरामः| सः नः प्रभुः |

तात्पर्यः--
रामः सकल कल्पवृक्षाणां उद्यानः, सकल आपदां विरामः च, त्रिलोकाणां प्रियः च | सः अस्माकं प्रभुः |

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ |
पुन्डरीकविशालाक्षौ चीरक्रुष्णाजिनाम्बरौ ||

अन्वयः--
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ पुन्डरीक + विशालाक्षौ चीर + क्रुष्णाजिन + अम्बरौ |

तात्पर्यः--
एषः वाक्यः सद्यः असम्पूर्नः अस्ति | कश्चनौ द्वौ जनौ तरुणौ रूपसंपन्नौ, सुकुमारौ, महाबलौ, कमलं इव विशाल नयनौ शोभितौ, पुरातन वस्त्रं क्रुष्णाजिनं च धारयतः | अग्रिम श्लोके पूर्णं भवति वा पश्यामः |

फलमूलाशिनौ दान्तौ तापसु ब्रह्मचारिणौ |
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलाक्ष्मणौ ||

अन्वयः--
फल + मूल + आशिनौ दान्तौ तापसौ ब्रह्मचारिणौ पुत्रौ दशरथस्य एतौ भ्रातरौ रामलाक्ष्मणौ |

तात्पर्यः--
गत वाक्यः अत्र सम्पूर्णं भवति | एतौ दशरथस्य पुत्रौ, भ्रातरौ रामलाक्ष्मणौ फलानि च मूलानि च खादकौ, आत्मनिग्रहवन्तौ (दान्तौ), तापसौ ब्रह्मचारिणौ |

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् |
रक्षः कुलनिहंतारौ त्रायेतां नो रघूत्तमौ ||

अन्वयः--
रघूत्तमौ सर्वसत्त्वानां शरण्यौ सर्वधनुष्मतां श्रेष्ठौ रक्षः कुलनिहंतारौ नः त्रायेताम |

तात्पर्यः--
रामलक्ष्मणौ [रघूत्तमौ] सर्वे अपि सत्त्वानां शरण्यौ, सर्व-धनुष्मतां श्रेष्ठौ राक्षस कुलस्य निहन्तारौ [स्तः] | ईद्रुशौ एतौ द्वौ नः [अस्मान्] त्रायेताम |

2 comments:

ramakrishna u said...

namaste Kedar,

Please post the next post of the series when you have time.

Ramakrishna

shalini said...

kurmaH, kurmaH...

anushaasanam aavashyakam